Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 18:16

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

द्वयो र्जनयोः साक्ष्यं ग्रहणीयं भवतीति युष्माकं व्यवस्थाग्रन्थे लिखितमस्ति।

एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।

द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।

यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,

पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्