Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 14:25

सत्यवेदः। Sanskrit NT in Devanagari

तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

कुत्र यामे स्तेन आगमिष्यतीति चेद् गृहस्थो ज्ञातुम् अशक्ष्यत्, तर्हि जागरित्वा तं सन्धिं कर्त्तितुम् अवारयिष्यत् तद् जानीत।

गृहपतिः सायंकाले निशीथे वा तृतीययामे वा प्रातःकाले वा कदागमिष्यति तद् यूयं न जानीथ;

अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।

यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः।

ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्

स स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति।

अपरं समुद्रमेदिन्योस्तिष्ठन् यो दूतो मया दृष्टः स गगनं प्रति स्वदक्षिणकरमुत्थाप्य

अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाष्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्णं क्षुद्रग्रन्थं गृहाण,




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्