Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 13:21

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

47 अन्तरसन्दर्भाः  

मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।

यस्याहं न विघ्नीभवामि, सएव धन्यः।

अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,

ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।

किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।

किन्तु यः कश्चित् शेषं यावद् धैर्य्यमाश्रयते, सएव परित्रायिष्यते।

तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥

पितरस्तं प्रोवाच, भवांश्चेत् सर्व्वेषां विघ्नरूपो भवति, तथापि मम न भविष्यति।

कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।

ये कथं श्रुत्वा सानन्दं गृह्लन्ति किन्त्वबद्धमूलत्वात् स्वल्पकालमात्रं प्रतीत्य परीक्षाकाले भ्रश्यन्ति तएव पाषाणभूमिस्वरूपाः।

तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ।

वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।

ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।

ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति।

ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता।

ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

आशियादेशीयाः सर्व्वे मां त्यक्तवन्त इति त्वं जानासि तेषां मध्ये फूगिल्लो हर्म्मगिनिश्च विद्येते।

यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।

यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।

यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।

तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्