Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 12:25

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

ततः स तेषाम् एतादृशीं चिन्तां विज्ञाय कथितवान्, यूयं मनःसु कृत एतादृशीं कुचिन्तां कुरुथ?

इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?

पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।

मनुजस्यान्तःस्थमात्मानं विना केन मनुजेन तस्य मनुजस्य तत्त्वं बुध्यते? तद्वदीश्वरस्यात्मानं विना केनापीश्वरस्य तत्त्वं न बुध्यते।

किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।

अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।

तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।

तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्