Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मत्ती 11:21

सत्यवेदः। Sanskrit NT in Devanagari

हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

31 अन्तरसन्दर्भाः  

तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।

अनन्तरं यीशुस्तस्मात् स्थानात् प्रस्थाय सोरसीदोन्नगरयोः सीमामुपतस्यौ।

विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।

मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।

ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।

अथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्।

अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।

पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।

अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।

किन्तु सीदोन्प्रदेशीयसारिफत्पुरनिवासिनीम् एकां विधवां विना कस्याश्चिदपि समीपे एलियः प्रेरितो नाभूत्।

ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।

अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।

बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।

ते गालीलीयबैत्सैदानिवासिनः फिलिपस्य समीपम् आगत्य व्याहरन् हे महेच्छ वयं यीशुं द्रष्टुम् इच्छामः।

हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।

परस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।

तान् धिक्, ते काबिलो मार्गे चरन्ति पारितोषिकस्याशातो बिलियमो भ्रान्तिमनुधावन्ति कोरहस्य दुर्म्मुखत्वेन विनश्यन्ति च।

पश्चात् मम द्वाभ्यां साक्षिभ्यां मया सामर्थ्यं दायिष्यते तावुष्ट्रलोमजवस्त्रपरिहितौ षष्ठ्यधिकद्विशताधिकसहस्रदिनानि यावद् भविष्यद्वाक्यानि वदिष्यतः।

अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्