Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 6:56

सत्यवेदः। Sanskrit NT in Devanagari

तथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।

इत्यनन्तरे द्वादशवत्सरान् यावत् प्रदरामयेन शीर्णैका नारी तस्य पश्चाद् आगत्य तस्य वसनस्य ग्रन्थिं पस्पर्श;

यतोऽनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।

चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।

अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।

सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।

तस्मात् तत्क्षणात् तस्या रक्तस्रावो रुद्धः।

तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।

एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,

पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्