Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 6:37

सत्यवेदः। Sanskrit NT in Devanagari

तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

13 अन्तरसन्दर्भाः  

किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।

किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।

तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।

एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।

तदा स उवाच, यूयमेव तान् भेजयध्वं; ततस्ते प्रोचुरस्माकं निकटे केवलं पञ्च पूपा द्वौ मत्स्यौ च विद्यन्ते, अतएव स्थानान्तरम् इत्वा निमित्तमेतेषां भक्ष्यद्रव्येषु न क्रीतेषु न भवति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्