Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 4:4

सत्यवेदः। Sanskrit NT in Devanagari

वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

8 अन्तरसन्दर्भाः  

मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।

तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।

तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।

अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;

कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;

ये कथामात्रं शृण्वन्ति किन्तु पश्चाद् विश्वस्य यथा परित्राणं न प्राप्नुवन्ति तदाशयेन शैतानेत्य हृदयातृ तां कथाम् अपहरति त एव मार्गपार्श्वस्थभूमिस्वरूपाः।

ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्