Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 14:22

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।

अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।

मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।

अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।

अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।

अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।

तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।

पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।

किन्तु ततः परं प्रभु र्यत्र ईश्वरस्य गुणान् अनुकीर्त्त्य लोकान् पूपान् अभोजयत् तत्स्थानस्य समीपस्थतिविरियाया अपरास्तरणय आगमन्।

यतस्तेऽनुचरत आत्मिकाद् अचलात् लब्धं तोयं पपुः सोऽचलः ख्रीष्टएव।

यस्माद् हाजिराशब्देनारवदेशस्थसीनयपर्व्वतो बोध्यते, सा च वर्त्तमानाया यिरूशालम्पुर्य्याः सदृशी। यतः स्वबालैः सहिता सा दासत्व आस्ते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्