Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 14:14

सत्यवेदः। Sanskrit NT in Devanagari

स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

8 अन्तरसन्दर्भाः  

अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?

किन्तु युवां कर्म्मेदं कुतः कुरुथः? कथामिमां यदि कोपि पृच्छति तर्हि प्रभोरत्र प्रयोजनमस्तीति कथिते स शीघ्रं तमत्र प्रेषयिष्यति।

तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;

ततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।

यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।

इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।

यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।

पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्