Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 13:27

सत्यवेदः। Sanskrit NT in Devanagari

अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

27 अन्तरसन्दर्भाः  

पुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।

अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य

तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,

तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।

तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।

अपरञ्च परमेश्वरो यदि तस्य समयस्य संक्षेपं न करोति तर्हि कस्यापि प्राणभृतो रक्षा भवितुं न शक्ष्यति, किन्तु यान् जनान् मनोनीतान् अकरोत् तेषां स्वमनोनीतानां हेतोः स तदनेहसं संक्षेप्स्यति।

यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति।

उडुम्बरतरो र्दृष्टान्तं शिक्षध्वं यदोडुम्बरस्य तरो र्नवीनाः शाखा जायन्ते पल्लवादीनि च र्निगच्छन्ति, तदा निदाघकालः सविधो भवतीति यूयं ज्ञातुं शक्नुथ।

कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।

ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?

अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।

किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।

ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन?

अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।

हे भ्रातरः, अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनं तस्य समीपे ऽस्माकं संस्थितिञ्चाधि वयं युष्मान् इदं प्रार्थयामहेे,

ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे।

पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्