Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 12:44

सत्यवेदः। Sanskrit NT in Devanagari

यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।

अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।

तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।

किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।

द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।

सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्