Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 10:43

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ।

युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।

ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।

यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।

युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।

किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।

यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।

यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्