Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 10:19

सत्यवेदः। Sanskrit NT in Devanagari

परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति।

परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।

वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।

अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।

हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?

यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।

एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।

यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्