Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 1:25

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

पश्चाद् यीशुस्तौ दृढमाज्ञाप्य जगाद, अवधत्तम् एतां कथां कोपि मनुजो म जानीयात्।

भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।

ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।

ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।

अथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।

तदा यीशुस्तं तर्जयित्वावदत् मौनी भव इतो बहिर्भव; ततः सोमेध्यभूतस्तं मध्यस्थाने पातयित्वा किञ्चिदप्यहिंसित्वा तस्माद् बहिर्गतवान्।

ततो भूता बहुभ्यो निर्गत्य चीत्शब्दं कृत्वा च बभाषिरे त्वमीश्वरस्य पुत्रोऽभिषिक्तत्राता; किन्तु सोभिषिक्तत्रातेति ते विविदुरेतस्मात् कारणात् तान् तर्जयित्वा तद्वक्तुं निषिषेध।

सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्