Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



मार्क 1:11

सत्यवेदः। Sanskrit NT in Devanagari

त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

19 अन्तरसन्दर्भाः  

केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।

एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।

अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।

स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।

एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।

तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।

तदा तस्मात् पयोदाद् इयमाकाशीया वाणी निर्जगाम, ममायं प्रियः पुत्र एतस्य कथायां मनो निधत्त।

अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।

ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

यः पिता मां प्रेरितवान् मोपि मदर्थे प्रमाणं ददाति। तस्य वाक्यं युष्माभिः कदापि न श्रुतं तस्य रूपञ्च न दृष्टं

अनन्तजीवनदायिन्यो याः कथास्तास्तवैव। भवान् अमरेश्वरस्याभिषिक्त्तपुत्र इति विश्वस्य निश्चितं जानीमः।

पवित्रस्यात्मनः सम्बन्धेन चेश्वरस्य प्रभाववान् पुत्र इति श्मशानात् तस्योत्थानेन प्रतिपन्नं।

यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्