Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 9:18

सत्यवेदः। Sanskrit NT in Devanagari

अथैकदा निर्जने शिष्यैः सह प्रार्थनाकाले तान् पप्रच्छ, लोका मां कं वदन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।

अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।

अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।

इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।

ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।

ततस्ते प्राचुः, त्वां योहन्मज्जकं वदन्ति; केचित् त्वाम् एलियं वदन्ति, पूर्व्वकालिकः कश्चिद् भविष्यद्वादी श्मशानाद् उदतिष्ठद् इत्यपि केचिद् वदन्ति।

एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।

अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्