Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 8:5

सत्यवेदः। Sanskrit NT in Devanagari

ततो वपनकाले कतिपयानि बीजानि मार्गपार्श्वे पेतुः, ततस्तानि पदतलै र्दलितानि पक्षिभि र्भक्षितानि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,

युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।

तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।

अनन्तरं नानानगरेभ्यो बहवो लोका आगत्य तस्य समीपेऽमिलन्, तदा स तेभ्य एकां दृष्टान्तकथां कथयामास। एकः कृषीबलो बीजानि वप्तुं बहिर्जगाम,

कतिपयानि बीजानि पाषाणस्थले पतितानि यद्यपि तान्यङ्कुरितानि तथापि रसाभावात् शुशुषुः।

अतो वयं यद् भ्रमस्रोतसा नापनीयामहे तदर्थमस्माभि र्यद्यद् अश्रावि तस्मिन् मनांसि निधातव्यानि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्