Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 8:32

सत्यवेदः। Sanskrit NT in Devanagari

तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।

अथ भूता विनयेन जगदुः, गभीरं गर्त्तं गन्तुं माज्ञापयास्मान्।

ततः परं भूतास्तं मानुषं विहाय वराहव्रजम् आशिश्रियुः वराहव्रजाश्च तत्क्षणात् कटकेन धावन्तो ह्रदे प्राणान् विजृहुः।

तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।

हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।

वर्षसहस्रे समाप्ते शयतानः स्वकारातो मोक्ष्यते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्