Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 7:50

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।

ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।

तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।

तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।

तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।

यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।

अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।

यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।

ततः स तां जगाद हे कन्ये सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थाम् अकार्षीत् त्वं क्षेमेण याहि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्