Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 7:10

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

6 अन्तरसन्दर्भाः  

ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।

ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो मङ्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।

तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।

परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।

यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्