Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 6:41

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत।

तथा तेषां समीपे ये क्षुद्रमत्स्या आसन् तानप्यादाय ईश्वरगुणान् संकीर्त्य परिवेषयितुम् आदिष्टवान्।

गुरोः शिष्यो न श्रेष्ठः किन्तु शिष्ये सिद्धे सति स गुरुतुल्यो भवितुं शक्नोति।

स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।

ततस्तैः पुनः पुनः पृष्ट उत्थाय कथितवान् युष्माकं मध्ये यो जनो निरपराधी सएव प्रथमम् एनां पाषाणेनाहन्तु।

हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।

आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्