Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 6:26

सत्यवेदः। Sanskrit NT in Devanagari

सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

18 अन्तरसन्दर्भाः  

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।

इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।

यदि यूयं जगतो लोका अभविष्यत तर्हि जगतो लोका युष्मान् आत्मीयान् बुद्ध्वाप्रेष्यन्त; किन्तु यूयं जगतो लोका न भवथ, अहं युष्मान् अस्माज्जगतोऽरोचयम् एतस्मात् कारणाज्जगतो लोका युष्मान् ऋतीयन्ते।

जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।

यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।

हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्