Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 5:25

सत्यवेदः। Sanskrit NT in Devanagari

तस्मात् स तत्क्षणम् उत्थाय सर्व्वेषां साक्षात् निजशयनीयं गृहीत्वा ईश्वरं धन्यं वदन् निजनिवेशनं ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।

ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।

ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।

ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

तदानीं स पाणिं प्रसार्य्य तदङ्गं स्पृशन् बभाषे त्वं परिष्क्रियस्वेति ममेच्छास्ति ततस्तत्क्षणं स कुष्ठात् मुक्तः।

तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्