Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 4:32

सत्यवेदः। Sanskrit NT in Devanagari

तदुपदेशात् सर्व्वे चमच्चक्रु र्यतस्तस्य कथा गुरुतरा आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

15 अन्तरसन्दर्भाः  

तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।

तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।

तदानीं तद्भजनगेहस्थितोऽमेध्यभूतग्रस्त एको जन उच्चैः कथयामास,

ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।

आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।

तदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।

किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।

यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मध्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते।

एतानि भाषस्व पूर्णसामर्थ्येन चादिश प्रबोधय च, कोऽपि त्वां नावमन्यतां।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्