Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 3:36

सत्यवेदः। Sanskrit NT in Devanagari

शेलह् कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

22 अन्तरसन्दर्भाः  

यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;

नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।

लेमक् मिथूशेलहः पुत्रः, मिथूशेलह् हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।

अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।

पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।

पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्