Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 3:10

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

7 अन्तरसन्दर्भाः  

ततः परं करसञ्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?

अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।

तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।

पश्चात् स तौ बहिरानीय पृष्टवान् हे महेच्छौ परित्राणं प्राप्तुं मया किं कर्त्तव्यं?

एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?

ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।

तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्