Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 23:20

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु पीलातो यीशुं मोचयितुं वाञ्छन् पुनस्तानुवाच।

अध्यायं द्रष्टव्यम् प्रतिलिपि

6 अन्तरसन्दर्भाः  

अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।

तदा पीलातः सर्व्वाल्लोकान् तोषयितुमिच्छन् बरब्बां मोचयित्वा यीशुं कशाभिः प्रहृत्य क्रुशे वेद्धुं तं समर्पयाम्बभूव।

स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्।

तथाप्येनं क्रुशे व्यध क्रुशे व्यधेति वदन्तस्ते रुरुवुः।

तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्