Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 20:36

सत्यवेदः। Sanskrit NT in Devanagari

ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

20 अन्तरसन्दर्भाः  

उत्थानप्राप्ता लोका न विवहन्ति, न च वाचा दीयन्ते, किन्त्वीश्वरस्य स्वर्गस्थदूतानां सदृशा भवन्ति।

मृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति।

अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।

तेन विजेतव्यो यः शेषरिपुः स मृत्युरेव।

तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।

मृण्मयस्य रूपं यद्वद् अस्माभि र्धारितं तद्वत् स्वर्गीयस्य रूपमपि धारयिष्यते।

स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।

एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।

तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।

ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्