Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 2:40

सत्यवेदः। Sanskrit NT in Devanagari

तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।

तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।

अथ यीशो र्बुद्धिः शरीरञ्च तथा तस्मिन् ईश्वरस्य मानवानाञ्चानुग्रहो वर्द्धितुम् आरेभे।

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।

अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।

हे मम पुत्र, ख्रीष्टयीशुतो योऽनुग्रहस्तस्य बलेन त्वं बलवान् भव।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्