Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 17:20

सत्यवेदः। Sanskrit NT in Devanagari

अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

9 अन्तरसन्दर्भाः  

युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।

अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।

योहन आगमनपर्य्यनतं युष्माकं समीपे व्यवस्थाभविष्यद्वादिनां लेखनानि चासन् ततः प्रभृति ईश्वरराज्यस्य सुसंवादः प्रचरति, एकैको लोकस्तन्मध्यं यत्नेन प्रविशति च।

अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।

यीशुः प्रत्यवदत् मम राज्यम् एतज्जगत्सम्बन्धीयं न भवति यदि मम राज्यं जगत्सम्बन्धीयम् अभविष्यत् तर्हि यिहूदीयानां हस्तेषु यथा समर्पितो नाभवं तदर्थं मम सेवका अयोत्स्यन् किन्तु मम राज्यम् ऐहिकं न।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्