Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 17:1

सत्यवेदः। Sanskrit NT in Devanagari

इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

14 अन्तरसन्दर्भाः  

किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।

विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।

तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।

इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।

यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।

अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।

पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्

तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।

तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्