Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 16:8

सत्यवेदः। Sanskrit NT in Devanagari

तेनैव प्रभुस्तमयथार्थकृतम् अधीशं तद्बुद्धिनैपुण्यात् प्रशशंस; इत्थं दीप्तिरूपसन्तानेभ्य एतत्संसारस्य सन्ताना वर्त्तमानकालेऽधिकबुद्धिमन्तो भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

23 अन्तरसन्दर्भाः  

यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।

तदा यीशुरुक्तवान्, तर्हि सन्ताना मुक्ताः सन्ति।

यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।

अतएव मयि गृहकार्य्याधीशपदात् च्युते सति यथा लोका मह्यम् आश्रयं दास्यन्ति तदर्थं यत्कर्म्म मया करणीयं तन् निर्णीयते।

पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताढकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख।

पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।

तदा यीशुः प्रत्युवाच, एतस्य जगतो लोका विवहन्ति वाग्दत्ताश्च भवन्ति

किन्तु ये तज्जगत्प्राप्तियोग्यत्वेन गणितां भविष्यन्ति श्मशानाच्चोत्थास्यन्ति ते न विवहन्ति वाग्दत्ताश्च न भवन्ति,

अतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।

कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।

पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।

तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।

सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः।

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्