Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 16:20

सत्यवेदः। Sanskrit NT in Devanagari

सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

14 अन्तरसन्दर्भाः  

तदा तस्मिन् बहिर्द्वारं गते ऽन्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्।

एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च।

अथ श्वान आगत्य तस्य क्षतान्यलिहन्।

अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।

तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।

यो भ्राता नम्रः स निजोन्नत्या श्लाघतां।

हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्