Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 14:32

सत्यवेदः। Sanskrit NT in Devanagari

यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

11 अन्तरसन्दर्भाः  

अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।

यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।

अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति

अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?

तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।

किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।

हेरोद् बहु मृगयित्वा तस्योद्देशे न प्राप्ते सति रक्षकान् संपृच्छ्य तेषां प्राणान् हन्तुम् आदिष्टवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्