Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 14:28

सत्यवेदः। Sanskrit NT in Devanagari

दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।

ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।

यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।

नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,

तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।

किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्