Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 13:8

सत्यवेदः। Sanskrit NT in Devanagari

ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

17 अन्तरसन्दर्भाः  

किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।

ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।

तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।

तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।

केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्