Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 12:6

सत्यवेदः। Sanskrit NT in Devanagari

पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

8 अन्तरसन्दर्भाः  

द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।

पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।

काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?

अन्यच्च काम्पिलपुष्पं कथं वर्द्धते तदापि विचारयत, तत् कञ्चन श्रमं न करोति तन्तूंश्च न जनयति किन्तु युष्मभ्यं यथार्थं कथयामि सुलेमान् बह्वैश्वर्य्यान्वितोपि पुष्पस्यास्य सदृशो विभूषितो नासीत्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्