Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 12:58

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति

अध्यायं द्रष्टव्यम् प्रतिलिपि

20 अन्तरसन्दर्भाः  

तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।

तेनोक्तमेतत्, संश्रोष्यामि शुभे काले त्वदीयां प्रार्थनाम् अहं। उपकारं करिष्यामि परित्राणदिने तव। पश्यतायं शुभकालः पश्यतेदं त्राणदिनं।

तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्।

मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।

हे प्रियाः, साधारणपरित्राणमधि युष्मान् प्रति लेखितुं मम बहुयत्ने जाते पूर्व्वकाले पवित्रलोकेषु समर्पितो यो धर्म्मस्तदर्थं यूयं प्राणव्ययेनापि सचेष्टा भवतेति विनयार्थं युष्मान् प्रति पत्रलेखनमावश्यकम् अमन्ये।

वर्षसहस्रे समाप्ते शयतानः स्वकारातो मोक्ष्यते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्