Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 11:8

सत्यवेदः। Sanskrit NT in Devanagari

तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,

हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनयेऽहं

मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्।

युष्माकं लायदिकेयास्थभ्रातृणाञ्च कृते यावन्तो भ्रातरश्च मम शारीरिकमुखं न दृष्टवन्तस्तेषां कृते मम कियान् यत्नो भवति तद् युष्मान् ज्ञापयितुम् इच्छामि।

ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्