Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 11:18

सत्यवेदः। Sanskrit NT in Devanagari

तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

7 अन्तरसन्दर्भाः  

यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?

तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?

तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।

किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्