Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 10:36

सत्यवेदः। Sanskrit NT in Devanagari

एषां त्रयाणां मध्ये तस्य दस्युहस्तपतितस्य जनस्य समीपवासी कः? त्वया किं बुध्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

6 अन्तरसन्दर्भाः  

ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।

ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।

परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।

ततः स व्यवस्थापकः कथयामास यस्तस्मिन् दयां चकार। तदा यीशुः कथयामास त्वमपि गत्वा तथाचर।

तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो र्ऋणे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्