Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 1:29

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं सा तं दृष्ट्वा तस्य वाक्यत उद्विज्य कीदृशं भाषणमिदम् इति मनसा चिन्तयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।

तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च।

स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।

तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।

किन्तु मरियम् एतत्सर्व्वघटनानां तात्पर्य्यं विविच्य मनसि स्थापयामास।

ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।

ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,

किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्