Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



लूका 1:13

सत्यवेदः। Sanskrit NT in Devanagari

तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

27 अन्तरसन्दर्भाः  

यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।

तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।

स दूतो योषितो जगाद, यूयं मा भैष्ट, क्रुशहतयीशुं मृगयध्वे तदहं वेद्मि।

सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।

किञ्च त्वं सानन्दः सहर्षश्च भविष्यसि तस्य जन्मनि बहव आनन्दिष्यन्ति च।

ततो दूतोऽवदत् हे मरियम् भयं माकार्षीः, त्वयि परमेश्वरस्यानुग्रहोस्ति।

अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे।

हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्