Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 8:9

सत्यवेदः। Sanskrit NT in Devanagari

तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

22 अन्तरसन्दर्भाः  

एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दोऽभवत्।

तत्पश्चाद् यीशुरुत्थाय तां वनितां विना कमप्यपरं न विलोक्य पृष्टवान् हे वामे तवापवादकाः कुत्र? कोपि त्वां किं न दण्डयति?

ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।

ततः सर्व्वेषु लोकेषु तस्य समीप आगतेषु स उपविश्य तान् उपदेष्टुम् आरभत।

तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्

पश्चात् स पुनश्च प्रह्वीभूय भूमौ लेखितुम् आरभत।

तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।

तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?

यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्