Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 8:49

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।

हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।

यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।

त्वं यस्य कर्म्मणो भारं मह्यं दत्तवान्, तत् सम्पन्नं कृत्वा जगत्यस्मिन् तव महिमानं प्राकाशयं।

तदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?

मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि।

किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।

पुरुषस्य दीर्घकेशत्वं तस्य लज्जाजनकं, किन्तु योषितो दीर्घकेशत्वं तस्या गौरवजनकं

यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।

निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्