Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 8:34

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुः प्रत्यवदद् युष्मानहं यथार्थतरं वदामि यः पापं करोति स पापस्य दासः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

16 अन्तरसन्दर्भाः  

अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।

तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।

यतस्त्वं तिक्तपित्ते पापस्य बन्धने च यदसि तन्मया बुद्धम्।

अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।

यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?

वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।

व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।

अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत।

यतः पूर्व्वं वयमपि निर्ब्बोधा अनाज्ञाग्राहिणो भ्रान्ता नानाभिलाषाणां सुखानाञ्च दासेया दुष्टत्वेर्ष्याचारिणो घृणिताः परस्परं द्वेषिणश्चाभवामः।

तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्