Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 6:7

सत्यवेदः। Sanskrit NT in Devanagari

फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

10 अन्तरसन्दर्भाः  

किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।

तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?

परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।

बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।

पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।

तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।

ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।

एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्