Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 5:43

सत्यवेदः। Sanskrit NT in Devanagari

अहं निजपितु र्नाम्नागतोस्मि तथापि मां न गृह्लीथ किन्तु कश्चिद् यदि स्वनाम्ना समागमिष्यति तर्हि तं ग्रहीष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

13 अन्तरसन्दर्भाः  

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।

बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।

तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।

हे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।

ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

अहं युष्मान् जानामि; युष्माकमन्तर ईश्वरप्रेम नास्ति।

निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।

यो मिसरीयो जनः पूर्व्वं विरोधं कृत्वा चत्वारि सहस्राणि घातकान् सङ्गिनः कृत्वा विपिनं गतवान् त्वं किं सएव न भवसि?




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्