Biblia Todo Logo
अन्तरसन्दर्भाः
- विज्ञापनम् -



योहन 5:15

सत्यवेदः। Sanskrit NT in Devanagari

ततः स गत्वा यिहूदीयान् अवदद् यीशु र्माम् अरोगिणम् अकार्षीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

12 अन्तरसन्दर्भाः  

किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,

अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?

तस्माद् यिहूदीयाः स्वस्थं नरं व्याहरन् अद्य विश्रामवारे शयनीयमादाय न यातव्यम्।

तदा तेऽपृच्छन् शयनीयम् उत्तोल्यादाय यातुं य आज्ञापयत् स कः?

ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।

ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।

किन्तु यीशु र्विश्रामवारे कर्द्दमं कृत्वा तस्य नयने प्रसन्नेऽकरोद् इतिकारणात् कतिपयफिरूशिनोऽवदन्

तदा स उक्त्तवान् स पापी न वेति नाहं जाने पूर्वामन्ध आसमहम् अधुना पश्यामीति मात्रं जानामि।

सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।

ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।




अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्